|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.296. अध्यायः 296
Mahabharata - Vana Parva - Chapter Topics
अश्वपतिना राज्ञा द्युमत्सेनाश्रममेत्य सत्यवते स्वपुत्र्याः सावित्र्या रदानेन वैवाहिकोत्सवनिर्वर्तनपूर्वकं स्वनगरागमनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
मार्कण्डेय उवाच। 3-296-0x(2751)(27316)
अथ कन्याप्रदाने स तमेवार्थं विचिन्तयन्।
समानित्ये च तत्सर्वंभाण्डं वैवाहिकं नृपः ॥ 3-296-1(27317)
ततो वृद्धान्द्विजान्सर्वानृत्विक्सभ्यपुरोहितान्।
समाहूय दिने पुण्ये प्रययौ सह कन्यया ॥ 3-296-2(27318)
मेध्यारण्यं स गत्वा च द्युमत्सेनाश्रमं नृपः।
पद्भ्यामेव द्विजैः सार्धं राजर्षिं तमुपागमत् ॥ 3-296-3(27319)
तत्रापश्यन्महाभागं सालवृक्षमुपाश्रितम्।
कौश्यां बृस्यां समासीनं चक्षुर्हीनं नृपं तदा ॥ 3-296-4(27320)
स राजा तस्य राजर्षेः कृत्वापूजां यथाऽर्हतः।
वाचा सुनियतो भूत्वा चकारात्मनिवेदनम् ॥ 3-296-5(27321)
तस्यार्ध्यमासं चैव गां चावेद्यस धर्मवित्।
किमागमनमित्येवं राजा राजानमब्रवीत् ॥ 3-296-6(27322)
तस्य सर्वमभिप्रायमितिकर्तव्यतां च ताम्।
सत्यवन्तं समुद्दिश्य सर्वमेव न्यवेदयत् ॥ 3-296-7(27323)
सावित्री नाम राजर्षे कन्येयं मम शोभना।
तां स्वधर्मेण धर्मज्ञ स्नुषार्थे त्वं गृहाण मे ॥ 3-296-8(27324)
द्युमत्सेन उवाच। 3-296-8x(2752)
च्युताः स्म राज्याद्वनवासमाश्रिता-
श्चराम धर्मं नियतास्तपस्विनः।
कथं त्वनर्हा वनवासमाश्रमे
सहिष्यति क्लेशमिमं सुता तव ॥ 3-296-9(27325)
अश्वमतिरुवाच। 3-296-10x(2753)
सुखं च दुःखं च भवाभवात्मकं
यदा विजानाति सुताऽहमेव च।
न मद्विधे युज्यतेवाक्यमीदृशं
विनिश्चयेनाभिगतोस्मि ते नृप ॥ 3-296-10(27326)
आशां नार्हसि मे हन्तुं सौहृदात्प्रणतस्य च।
अभितश्चागतं प्रेम्णा प्रत्याख्यातुं न माऽर्हसि ॥ 3-296-11(27327)
अनुरूपो हि युक्तश्च त्वं ममाहं तवापि च।
स्नुषां प्रतीच्छ मे कन्यां भार्यां सत्यवतस्ततः ॥ 3-296-12(27328)
द्युमत्सेन उवाच। 3-296-13x(2754)
पूर्वमेवाभिलवितः संबन्धो मे त्वया सह।
भ्रष्टराज्यस्त्वहमिति तत एतद्विचारितम् ॥ 3-296-13(27329)
अभिप्रायस्त्वयं यो मे पूर्वमेवाभिकाङ्क्षितः।
स निर्वर्ततु मेऽद्यैव काङ्क्षितो ह्यसि मेऽतिथिः ॥ 3-296-14(27330)
ततः सर्वान्समानाय्य द्विजानाश्रमवासिनः।
यथाविधि समुद्वाहं कारयामासतुर्नृपौ ॥ 3-296-15(27331)
दत्त्वा सोऽश्वपतिः कन्यां यथार्हं सपरिच्छदम्।
ययौ स्वमेव भवनं युक्तः परमया मुदा ॥ 3-296-16(27332)
सत्यवानपि तां भार्यां लब्ध्वा सर्वगुणान्विताम्।
मुमुदे सा रच रतं लब्ध्वा भर्तारं मनसेप्सितम् ॥ 3-296-17(27333)
गते पितरि सर्वाणि संन्यस्याभरणानि सा।
जगृहेवल्कलान्येव वस्त्रं काषायमेव च ॥ 3-296-18(27334)
परिचारैर्गुणैश्चैव प्रश्रयेण दमेन च।
सर्वकामक्रियाभिश्च सर्वेषां तुष्टिमादधे ॥ 3-296-19(27335)
श्वश्रूं शरीरसत्कारैः सर्वैराच्छादनादिभिः।
श्वशुरं देवसत्कारैर्वाचः संयमनेन च ॥ 3-296-20(27336)
तथैव प्रियवादेन नैषुणेन शमेन च।
रहश्चैवोपचारेण भर्तारं पर्यतोषयत् ॥ 3-296-21(27337)
एवं तत्राश्रमे तेषां तदा निवसतां सताम्।
कालस्तपस्यतां कश्चिदपाक्रामत भारत ॥ 3-296-22(27338)
सावित्र्याग्लायमानायास्तिष्ठन्त्यास्तु दिवानिशम।
नारदेन यदुक्तं तद्वाक्यं मनसि वर्तते ॥ 3-296-23(27339)
इति श्रीमन्महाभारते अरण्यपर्वणि पतिव्रतामाहात्म्यपर्वणि षण्णवत्यधिकद्विशततमोऽध्यायः ॥ 296 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-296-1 वैवाहिकं भाण्डं विवाहोचितमुपकरणम् ॥ 3-296-4 कौश्यां रकुशमय्यां बृस्यामासने ॥ 3-296-5 आत्मनिवेदनमश्वपतिरहमिति ज्ञापनम् ॥ 3-296-10 भवाभवात्मकमुत्पत्तिविनाशात्मकम्। ते त्वां प्रति ॥ 3-296-11 मा माम् ॥ 3-296-14 निर्वर्ततु निष्पद्यताम् ॥ 3-296-16 सपरिच्छदं पारिवर्हसहितम् ॥ 3-296-19 परिचारैः सेवनैः। गुणैः शीलसत्यादिभिः। प्रश्रयेण स्नेहेन। दमेन जितेन्द्रियतया। सर्वकामक्रियाभिः सर्वेषामिष्टसंपादनेन ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|